कुरल-काव्य/परिच्छेदः १५ परस्त्रीत्यागः
परिच्छेदः १५
परस्त्रीत्यागः
रूपलावण्यसंव्याप्तदेहयष्टिजुषामपि।
नासौ रागी परस्त्रीणां धने धर्मे च यस्य धीः॥१॥
नास्ति तस्मात् परो मूखों यो द्वारं प्रतिवेशिनः।
वीक्षते पापबुद्धया स स्वधर्मात् पतितो जनः॥२॥
असंशयं मुखे मृत्योस्ते तिष्ठन्ति नराधमाः।
असन्देहवतः सख्युर्गृहं यैरभिगम्यते॥३॥
कोऽर्थस्तस्य महत्त्वेन रमते यः परस्त्रियाम्।
व्यभिचारात् समुत्पन्ना लज्जा येन च हेलिता॥४॥
आश्लिष्यति गले यश्च सुलभां प्रतिवेशिनीम्।
अङ्कमारोप्य तेनैव दूषितं निजनामकम्॥५॥
चत्वारो नैव मुञ्चन्ति व्यभिचारिजनं सदा।
घृणा पापानि भ्रान्तिश्च कलङ्केन समन्विताः॥६॥
विरक्तः प्रतिवेशिन्या रूपलावण्यसम्पदि।
स एव सद्गृही सत्यं कुलजाचारपालकः॥७॥
नैवेक्षते परस्त्रीं यः पुंस्त्वं तस्य जयत्यहो।
न परं तत्र धर्मित्वं महात्मा स हि भूतले॥८॥
बाहुपाशे न यो धत्ते कण्ठाश्लिष्टां पराङ्गनाम्।
भोक्ता स एव सर्वेषां श्रेयसां भूमिवर्तिनाम्॥९॥
वरमन्यत्कृतं पापमपराधोऽपि वा वरम्।
परं न साध्वी त्वत्पक्षे कांक्षिता प्रतिवेशिनी॥१०॥