कुरल-काव्य/परिच्छेदः १४ सदाचारः

कुरल-काव्य
तिरुवल्लुवर, अनुवादक पं० गोविन्दराय जैन

पृष्ठ १४

 

परिच्छेदः १४
सदाचारः

सदाचारेण सर्वत्र प्रतिष्ठाधारको जनः।
प्राणाधिकस्ततो रक्ष्यः सदाचारः सदा बुधैः॥१॥
प्रत्यहं प्रत्यवेक्षेत सुधीश्चरितमात्मनः।
दृढमित्रं यतो नास्ति तत्तुल्यं क्कापि विष्टपे[]॥२॥
आचारेण सुवंश्यत्वं द्योत्यते जगतीतले।
कदाचारैश्च नीचानां श्रेणावायाति मानवाः॥३॥
विस्मृतोऽप्यागमः प्राज्ञैः कण्ठस्थः क्रियते पुनः।
स्वाचारप्रच्युतः किन्तु न पुनर्याति तत्पदम्॥४॥
परोत्कर्षासहिष्णूनां यथा नैव समृद्वयः।
न गौरवं तथा किञ्चिद् दुराचारवतः कृते॥५॥
न स्खलन्ति सदाचारात् प्रतिज्ञापालका जनाः
स्खलनं ते हि जानन्ति दुःखाब्धेर्मूलकारणम्॥६॥
सन्मार्गवर्तिनः पुसः सन्मानं सभ्यसंसदि।
अप्रतिष्ठापकीर्तिश्च भाग्ये कापथगामिनः॥७॥
सुखबीजं सदाचारो वैभवस्यापि साधनम्।
कदाचारप्रसक्तिस्तु विपदां जन्मदायिनी॥८॥
विद्याविनयसम्पन्नः शालीनो गुणवान् नरः।
प्रमादादपि दुर्वाक्यं न ब्रूते हि कदाचन॥९॥
अन्यत् सर्वं सुशिक्षन्ते मूर्खा योग्योपदेशतः।
हन्त सन्मार्गगामित्वं न शिक्षन्ते कदापि ते॥१०॥

  1. जगति