कुरल-काव्य/परिच्छेदः १३ संयमः

कुरल-काव्य
तिरुवल्लुवर, अनुवादक पं० गोविन्दराय जैन

पृष्ठ १३

 

परिच्छेदः १३
संयमः

इन्द्रियाणां निरोधेन लभ्यते त्रिदशालयः।
[]घण्टापथस्तु विज्ञेयो रौरवार्थमसंयमः॥१॥
संयमोऽपि सदा रक्ष्यो निजकोषसमो बुधैः।
ततोऽधिकं यतो नास्ति निधानं जीवने परम्॥२॥
सम्यग्बोधन यः प्राज्ञः करोतीच्छानिरोधनम्।
मेधादिसर्वकल्याणं प्राप्स्यते स सदाशयः॥३॥
इन्द्रियाणां जयो यस्य कर्तव्येषु च शूरता।
पर्वतादधिकस्तस्व प्रभावो वर्तते भुवि॥४॥
नम्रता वर्तते नूनं सर्वेषामेव भूषणम्।
पूर्णाशैः शोभते किन्तु धनिके विनयान्विते॥५॥
संयम्य करणग्रामं कूर्मोऽङ्गानीव यो नरः।
वर्तते तेन कोशो हि संचितो भाविजन्मने॥६॥
अन्येषां विजयो माऽस्तु संयतां रसनां कुरु।
असंयता यतो जिह्वा बह्वपायैरधिष्ठिता॥७॥
एकमेव पदं वाण्यामस्ति चेन्मर्मघातकम्।
विनष्टास्तर्हि विज्ञेया उपकाराः पुराकृताः॥८॥
दग्धमङ्गं पुनः साधु जायते कालपाकतः।
कालपाकमपि प्राप्य न प्ररोहति वाक्क्षतम्॥९॥
पश्य मर्त्यं जितस्त्रान्तं विद्यावन्तं सुमेधसम्।
यद्दर्शनाय तद्गेहमेतो[] धर्मित्वसाधुते॥१०॥

  1. राजमार्ग,
  2. आगच्छत.