अयोध्या का इतिहास/उपसंहार/(थ) अयोध्या का वर्णन (त्रिषष्टिशलाका पुरुष चरित्र से)

प्रयाग: हिंदुस्तानी एकेडमी, पृष्ठ २३७ से – २३८ तक

 

 

उपसंहार (थ)
अयोध्या का वर्णन

हेमचन्द्राचार्य कृत त्रिषष्ठिशलाकापुरुषचरित्र प्रथम पर्व (सर्ग २)
"आदीश्वरचरित्रं" से उद्धृत।

विनीता साध्वमी तेन विनीताख्यां प्रभोः पुरीम्।
निर्मातुं श्रीदमादिश्य मघवा त्रिदिवं ययौ॥९११॥

द्वादशयोजनायामां नवयोजन-विस्तृताम्।
अयोध्येत्यपराभिख्यां विनीतां लोऽकरोत्पुरीम्॥९१२॥

तां च निर्माय निर्मायः पूरयामास यक्षराट् ।
अक्षय्यवस्खनेपथ्य-धन-धान्यनिरंतरम्॥९१३॥

वज्रेंद्रनीलवैडूर्यहर्म्य-किर्मीररश्मिभिः।
भित्तिं विनापि खे तत्र चित्रकर्म विरच्यते॥९१४॥

तत्रोच्चैः कांचनैर्हर्म्येेर्मेरुशैलशिरांस्यभिः।
पत्रालंवनलीलेव ध्वजव्याजाद्वितन्यते॥९१५॥

तद्वप्रे दीप्तमाणिक्य-कपिशीर्षपरंपराः।
अयत्ना दर्शतां यान्ति चिरं खेचरयोषिताम्॥९१६॥

तस्यां गृहांगणभुवि स्वस्तिकम्यस्तमौक्तिकैः।
स्वैरं कर्करिककीमां कुरुते वालिकाजनः॥९१७॥

तघाेद्यानोसवृक्षाग्रस्खल्यमानान्यहनिंशम्।
खेचरीणां विमानानि क्षणं यांति कुलायताम्॥९१८॥

तत्र दृष्ट्वाहम्येंषु रत्नराशीन् समुत्थितान्।
तदावरककूटोऽयं तर्क्यते रोहणाचलः॥९१६॥

जलकेलिरतस्त्रीणां त्रुटितैर्हारमौक्तिकैः।
ताम्रपर्णीश्रियं सत्र दधते गृहदीर्घिकाः॥९२०॥

तत्रेभ्याः संति ते येषां कस्याप्येकतमस्य सः।
व्यवहर्तुं गतो मन्ये वणिक्पुत्रो धनाधिपः॥९२१॥

नक्तमिंदुद्वषद्भित्ति-मंदिरस्यदिवारिभिः।
प्रशांतपांशवो रथ्याः क्रियंते तत्र सर्वतः॥९२२॥

वापीकूपसरोलक्षैः सुधासोदरवारिभिः।
नागलोकं मवसुधाकुंभं परिवभूव सा॥९२३॥

इतोऽस्य जम्बुद्वीपस्य द्वीपस्य भरते पुरी।
अस्ति नाम्ना विनीतेति शिरोमणिरिवावनेः॥१॥पर्व २सर्ग २।