अयोध्या का इतिहास/उपसंहार/(द) अयोध्या का वर्णन (धनपालकृत तिलकमंजरी से)

[ २३९ ] 

उपसंहार (द)
अयोध्या का वर्णन
धनपालकृत तिलकमंजरी[१] से

अस्ति रम्यतानिरस्त-सकलसुरलोका स्वपदापहारशङ्कितशतक्रतु प्रार्थितेन शततमक्रतुवाञ्छाविच्छेदार्थमिव पार्थिवानामिक्ष्वाकूणामुत्पादिता प्रजापतिना, वृत्तोज्ज्वलवर्णशालिनी कणिकेवाम्भोरुहस्य मध्यभागमलंकृत्य स्थिता भारतवर्षस्य, तुषारधवलभित्तिना विशालवप्रेण परिगता प्राकारेण, विपुलसोपानसुगमावतारवापीशतसमाकुला, मनोरथानामपि दुर्विलङ्घेयन प्लवमानकरिमकरकुम्भीरभीषणोमिणा जलप्रति विम्बितप्राकारच्छलेन जलराशिशड्कया मैनाकमन्वेष्टुमन्तः प्रविष्टहिमवतेव महता खातवलयेन वेष्ठिता, पवनपटुचलितधवलध्वजकलापैर्जामदग्न्यमार्गणाहतकौञ्चाद्रिच्छिद्रेरिवोद्भ्रान्तराजहंसैराशानिर्गममा-र्गायमाणैश्चतुर्मिरत्युच्चैर्गोपुरैरुपेता, प्रांशुशिखराप्रज्वलत्कनककलशैः सुधापकधवल प्राकारवलयितैरमरमन्दिरमण्डलैर्मण्डलित-भोगमध्यप्रवेशितोन्मणिफरणा सहस्त्रं शेषाहिमुपहसद्भिद्भासितचत्वरा, त्वरापतच्छलविशरशारिणी सिक्तसान्द्रबालद्रुमैर्द्रुमतलनिषादिना परिश्रान्तपथिकलोकेन दिवसमाकर्ण्य मानमधुरतारघटीयन्त्रचीत्कारैः परित्यक्तसकलव्यापारेण पौरवनिता मुखार्थितदृष्टिना सविक्रियंप्रजल्पता पठता गायता च भुजंगजनसमाजेन क्षणमप्यमुच्यमानमनोभव भवभावनीभवनैः प्रतिदिवसमधिकाधिकोन्मीलन्नीलकान्तिभिः स्वसंततिप्रभवपार्थिवप्रीतये दिनकरेणेवाकृष्य संचार्यमाण सकलशर्वरीतिमिरैरमरकाननानुकारिभिरारामैः श्यामायमानपरिसरा, गिरिशिखरततिनिभसातकुम्भप्रासादमालाध्यासितोभयविभागैः स्फुट[ २४० ]विभाव्यमान मरकतेन्द्रनीलवज्रवैडूर्यराशिभिश्चामीकराचलतटीव चण्डांशुरथचक्रमार्गै: पृथुलायतैर्विपणिपथैः प्रसधिता, धृतोद्भुरप्राकारपरिवेषैरभ्रंकष प्रतोलिभिरुत्तङ्गमकरतोरणावनद्धहरितचन्दनमालैर्दोलाविभूषिताङ्गणवेदिभिरश्रान्तकालागुरुधूपधूमाश्लेषभयपलायमानदन्तवलभिकभित्तिचित्रानिव विचित्रमयूखजालकमुषो माणिक्यजालकान् कलयद्भिरद्भुताकारैरनेकभूमिकाभ्राजिष्णुभिः सौधैः प्रवर्तिताविरतचान्द्रोदया प्रतिग्रहस्वच्छधवलायताभिदृष्टिभिरिव दिदृक्षारसेन वसुधया व्यापारिताभिः क्रीडासरसिभिः संविलता, मृदुपवनचलितमृद्वीकालतावलयेषु वियति विलसतामसितागुरुधूपधूमयोनीनामासारवारिणेवोपसीच्यमानेष्वाते नीलसुरभिषु गृहोपवनेषु वनितासखैः विलासिभिरनुभूयमानमधुपानोत्सवा, मद्यतकोशलविलासिनी नितम्बास्फालनस्फारितरङ्गया गृहीतसरलमृणालयष्टिभिः पूर्वार्णववितीर्णैर्वृद्धकञ्चुकिाभरिव राजहंसै: क्षणमथमुक्तपार्श्वया कपिलकोपानलेन्धनीकृतसगरतमयस्वर्गवार्तामिव प्रष्टुं भागीरथीमुपस्थिया सरिता सरण्वाख्यया कृतपर्यन्तसख़्या, सततगृहव्यापार निषण्णमानसाभिर्निसर्गतो गुरुवचनानुरागिणीभिरमुल्वणोज्ज्वलवेषाभिः स्वकुलाचारकौशलशालिनीभिः शालीनतया सुकुमारतया च कुचकुम्भयोरपि कदर्ध्यमानाभिरुद्धत्या मणिभूषणानामपि खिद्यमानाभिर्मुखरतया रतेष्वपि ताम्यन्तीभिर्षैया (जा) त्यपरिगृहेण स्वप्नेऽप्यलंघयन्तीभिर्द्वारतोरणमङ्गीकृत सतीवृताभिरष्यसतीवृताभिरलसाभिर्नितम्बभरवहने तुच्छाभिरुदरे तरलाभिश्चक्षुषि कुटिलाभिर्भुवोरतृप्ताभिरङ्गशोभाया मुद्धताभिस्तारुण्ये कृतकुसङ्गाभिश्चरणयोर्न स्वभावे को ये ऽ प्यदृष्ट मुखविकाराभिर्व्यलीकेऽप्यनुज्झितविनयाभिः खेदेऽप्यखण्डितोचित प्रतिपत्तिभिः कलहेऽष्यनिष्ठुरभाषिणीभिः सकलपुरुषार्थसिद्धिभिरिव शरीरवद्धामिः कुलप्रसूताभिरलंकृता वधूभिः, इतराभिरपि त्रिभुवनपताकायमानाभिः कुबेरपुरपुण्याङ्गनाभिरिव कृतपुण्यजनोचिताभिः पादशोभयापि न्यक्कृतपद्माभिरूरुतश्रियापि लघूकृतरम्भास्तम्भाभिर्गौयापि [ २४१ ]छायया सौभाग्यहेतोरुपासिताभिरिन्दुनापि प्रतिदिनं प्रतिपन्नकालन्तरेण प्रार्थ्यमानमुखकमलकान्तिभिर्मकरध्वजेनापि दर्शताधिना लब्धहृदयप्रवेशमहोत्सवाभिरप्रयुक्तयोगाभिरेकांवयवप्रकटाननमरुतामपि गतिं स्तम्भयन्तीभिरव्यापारितमन्त्राभिः सकृदाह्वाननेन नरेन्द्राणामपि सर्वस्वमाकर्षयन्तीभिरसदोषधीपरिग्रहाभिरीषत्कटाक्षपातेनाचलानपि द्रावयन्तीभिः सुरतशिल्पप्रगल्भतावष्टम्भेन रूपमपि निरुपयोगमवगच्छन्तीभिस्तारुण्यमपि तृणलघुगणयन्तीभिर्विलासानपि हास्यकोटौ कलयन्तीभिराभरणसंभारमपि भारवमधारयन्तीभिः प्रसाधनाडम्बरमपि विडम्बनापक्षे स्थापयन्तीभिरुपचारमथाचारबुद्ध‍्या प्रपञ्चयन्तीभिः कैश्चिदधरैरिव शतशः खण्डितैरप्यखण्डितरागैरनिशमुपयुज्यमानवदननिश्वासपरिमलाभिरपरैस्तु चपकैरिव कदाचिद्दानप्रणयितामानीय प्रणुनैरप्रसन्नैरणन्मधुकरध्वनिना मन्दं मन्दं रणरणायमानैः कामिभिर शून्य मन्दिरद्वाराभिर्नवसुरतेषु बद्धरागाभिरषि नीचरतेष्वशक्ताभिर्लक्ष्मी मनोवृत्तिभिरिव पुरुषोत्तमगुणहार्याभिर्न पुनरेकान्ततोऽर्थानुरागिणीभिः संसारेऽपि सारताबुद्धिनिबन्धनभूताभिः कुलक्रमायतवैशिक कलाकलाप वैचक्षण्याभिः साक्षादिव कामसूत्र विद्याविभिलासिनीभिर्वितीर्ण त्रिभुवनजिगीषुकुसुमसायकसहायका, अकलिताढ्या नाट्यविवेकैरगृहीतपण्डितापण्डितविभक्तिभिरनबबुद्धसाध्वसाधुविशेषैरनवधारितधार्मिकाधार्मिक पारीच्छत्तिभिः सर्वैरप्युदारविशेषैः सर्वैरपिच्छेकोक्तिकोविदैः सर्वैरपि परोपकारप्रवणैः सर्वैरपि सन्मार्गविर्तिभिः ज्ञातनि:शेषपुराणेतिहाससारैः दृष्टसकलकाव्यनाटकप्रबन्धैःपरिचितनिखिलाख्यायिकाख्यानव्याखानैः प्रमाणविद्भिरप्यप्रमाणविद्यैरधीतनीतिभिरप्यकुटिलैरभ्यस्तनाट्यशास्त्रैरप्यदर्शिभ्रूनेत्रविकारैः कामसूत्रपारगैरप्यविदितवैशिकैः सर्वभाषाविक्षणैरप्यशिक्षितलाटोक्तिभिः सात्विकैरपि राजसभावाप्तख़्यातिभिरोजस्विभिरपि प्रसन्नै: पूर्वाभिभाषिभिरुत्तरास्यलापनिपुणैः सकलरसभावनैः अविषादिभिः न्याय[ २४२ ]दर्शनानुरागिभिरपि न रौद्रैः परानुपहासिभिर्नर्मशीलः सर्वस्य गुणग्राहिभिः संतुष्टैर्व्यसनेष्वपरित्यागिभिः सर्वदा संविभागपरैः परोपकारिभिरात्मलाभोद्यतैः कतिपयकलापरिग्रहं ग्रहपतिमप्युपहसद्भिर्मित्रमण्डल पराङ्गखमनूरुमपि निरस्यद्भिर्लक्ष्मीप्राप्तये गाढधृतभूभृत्पादं वासुदेवमपि विप्लावयद्भिः स्नेहशून्यमानसं जिनमप्यवजानद्भिर्निवासिलोकै: संकला, विरचितालकेव मखानलधूमकोटिभिः स्पष्टिताञ्जनतिलकबिन्दुरिव वालोद्यानैः आविष्कृतविलाससहासेव दन्तवलभोभिः आग्रहीतदर्पणेव सरोभिः सकृतयुगेव सत्पुरुषव्यवहारैः स्वमकरध्वजराज्येव पुरन्ध्रिविव्वोकैः सब्रह्मलोकेव द्विजसमाजैः ससमुद्रमथनेव जनसंघातकलकलेनविततप्रभावर्षिभिराभरणपाषाणखण्डैरिव पाषण्डैर्मुषितकल्मषा, जयानुरागिभि रुपवनैरिव श्रोत्रियजनैः सच्छाया विचित्राकार वेदिभिरङ्गणैरिव नागरिकगणालंकृतगृहा, सवनराजिभिः सामस्वरैरिव क्रीडापर्वतकपरिसरैरानन्दितद्विजा, विश्वकर्मसहस्त्रैरिव निर्मितप्रासादा, लक्ष्मीसहस्त्रैरिव परिगृहीतगृहा, देवतासहस्त्रैरिवाधिष्टितप्रदेशा; महापार्थिववरूथिनीवानेकरथ्यासंकुला, राज्यनीतिरिव सन्निप्रतिपाद्यमाना वार्ताधिगतार्था, अर्हद्दर्शनस्थितिरिव नैगमव्यवहाराक्षिप्तलोका, रसातलविवक्षुरविरथचक्र भान्तिरिव चीत्कार मुखरित महाकूपारघट्टा, सर्वाश्चर्यनिधानमुत्तरकौशलेष्वयोध्येति यथार्थाभिधाना नगरी। या सितांशुकरसंपर्काद परिस्फुटस्फटिकदोलासु बद्धासनैर्विलासिमिथुनैरवागाह्यमानगगनान्तरा यस्यां समन्तादन्तरिक्ष संचरत्खेचरमिथुनस्य शुचिप्रदोषेषु शोभामधरीचकार विद्याधरलोकस्य। यस्याश्च गगनशिखोल्लेखिना प्राकारशिखरेण स्खलितवर्मा प्रस्तुतचाटुरिव प्रत्यग्रवन्दनमाला श्यामलामधिगोपुरं विलम्बयामास वासरमुखेषु रविरथाश्वापङ्क्तिमरणः। यस्यां च प्रियतमाभिसारप्रचलितानां पण्याङ्गनानामङ्ग लावण्यसंबर्धिताभिराभरणरत्नांशुसंततिभिः स्तम्भिततिमिरोदया भवनदीर्घिकासरोजवन निद्राभिरन्वमीयन्त रजनीसमारम्भाः। या च दक्षिणानिलतरङ्गितानां [ २४३ ]प्रतिभवनमुच्छितानामनङ्गध्वजानामङ्गलीविभ्रमाभिरालोहितांशुकवैजयन्तीभिः कृतमकरध्वजलोषमहापातकस्य शूलपाणेर्दत्तावकाशामलका पुरीमिव तर्जयन्ती मधुसमये संलक्ष्यते। यस्यां च मुदितगृहशिखण्डिकेकारवमुखरिताभिस्तरुणजलदपङ्क्तिभिः परिवारितप्रान्ताः सुप्रासादशिखरमालासु प्रावृषि कृतस्थितयो ग्रीष्मकालपरिभुक्तानामुपवनोपरुद्धपर्यन्तभुवामधस्तनभूमिकानां नोदकण्ठन्त सुकृतिनः। यस्यां च जलधरसमयनिर्धौतरेणुपटल निर्मलानामुदग्रसौधाग्रपद्मरागग्राव्णां प्रतिभाभिरनुरञ्जितः शरत्कालरजनीपौरजनीवदनपराजयलज्जया प्रतिपन्नकाषाय इव व्यराजत पार्वणो रजनीजानिः। यस्यां च तुषारसंपर्कपटुतरैस्तरुणी कुचोप्मभिरितस्ततरतड‍्यमाना हैमिनीष्वपि क्षणदास्त्रमन्दीकृतचन्दनाङ्गरागगौरवमदत्ताङ्गारशकटिका सेवादरम लुष्टकेलिवापिका पङ्कजवनमधुप्रभञ्जनाः। यस्यां च वीथीगृहाणां राजपथातिक्रमः, दोलाक्रीडासुदिगन्तरयात्रा, कुमुदखण्डानां राज्ञा सर्वस्वापहरणमनङ्गगार्गणानां मर्मट्टघनव्यसनं वैष्णावानां कृष्णवर्त्मनि प्रवेशः, सूर्योपलानां मित्रोदयेन ज्वलनम, वैशेषिकमते द्रव्यस्य कूटस्थवेत्यता। यत्र च भोगस्पृहया दानप्रवृतयः, दुरितप्रशान्तये शान्तिककर्मणि भयेन प्रणतयः, कार्यापेक्षयोपचारकरणानि, अतृप्त्या द्रविणोपार्जनानि, विनयाधानाय वृद्धोपास्तयः पुंसामासन॥

 

  1. इस प्रन्य को पं॰ भर्गस्तेदत्त शास्त्री और पं॰ काशिनाय पांडुरंग परव ने संपादित किया। बम्बई के तुकाराम जावाजी ने प्रकाशित किया।