कुरल-काव्य/परिच्छेदः ८ प्रेम
परिच्छेदः ८
प्रेम
अर्गला कापि नो नूनं प्रेमद्वारनिरोधिनी।
सूच्यतेऽश्रुनिपातेन मानसे तस्य संस्थितिः॥१॥
यो नरः प्रेमशून्यो हि स जीवत्यात्मनः कृते।
परं प्रेमानुरक्तस्य [१]कीकसश्च परार्थकृत्॥२॥
प्रेमामृतरसास्वादलालसोऽयं हि चेतनः।
सम्मतोऽभूत्पुनर्वद्धुं पिञ्जरेऽस्थिविनिर्मिते॥३॥
प्रेम्णः संजायते स्नेहः स्नेहात् साधुस्वभावता।
अमूल्यं मित्रतारत्नं सूते सा स्नेहशीलता॥४॥
यदिहास्ति परत्रापि सौभाग्यं भाग्यशालिनः।
तत् स्नेहस्य पुरस्कारो विश्रुतेयं जनश्रुतिः॥५॥
साधुभिः सह कर्तव्यः प्रणयो नेतरै: समम्।
नेयं सूक्तिर्यतः स्नेहः खलस्यापि जये क्षमः॥६॥
अस्थिहीनं यथा कीटं सूर्यों दहति तेजसा।
तथा दहति धर्मश्च प्रेमशून्यं नृकीटकम्॥७॥
मरुभूमौ यदा स्थाणुर्भवेत् पल्लवसज्जितः।
तदा प्रेमविहीनोऽपि भवेद् ऋद्धिसमन्वितः॥८॥
आत्मनो भूषणं प्रेम यस्य चित्ते न विद्यते।
बाह्यं हि तस्य सौन्दर्य व्यर्थं रूपधनादिजम्॥९॥
जीवनं जीवनं नैव स्नेहो जीवनमुच्यते।
प्रेमहीनो नरो नूनं मांसलिप्तास्थिसंचयः॥१०॥
- ↑ अस्थि