कुरल-काव्य/परिच्छेदः ७ संततिः
परिच्छेदः ७
संततिः
यदि पुण्यात् कुले जन्म बुद्धिमत्याः सुसंततेः।
ततोऽधिकं परं श्रेयो न मन्येऽहं महीतले॥१॥
निष्कलङ्का सदाचारभूषिता यस्य संततिः।
सप्तजन्मसमाप्त्यन्तं नासौ पापस्य भाजनम्॥२॥
आनन्ददायिनी पुसः संततिः सत्यसम्पदा।
निधानं प्राप्यते पुण्यैरीदृशं सुखदायकम्॥३॥
शिशुभिर्लघुहस्ताभ्यां मथ्यते यत् सुभोजनम्।
तद्रसास्वादनं नूनं पीयूषस्वादसन्निभम्॥४॥
अङ्गस्पर्शो हि बालानां देहे पूर्णसुखोदयः।
निसर्गललितालापस्तेषां कर्णरसायनम्॥५॥
वेणुध्वनौ सुमाधुर्यं वीणा स्वादीयसी बहुः।
एवं वदन्ति यैनैंव श्रुता संततिकाकिली॥६॥
प्रजां प्रति पितुः कार्यमिदमेवावशिष्यते।
मध्येसभं यथा स्यात् सा बुधपंक्तौ गुणादृता॥७॥
सर्वेषां जायते मोदो दृष्ट्वा हर्षविकासिनीम्।
बुद्धिवैभवमाहात्म्यैरात्मनोऽप्यधिकां प्रजाम्॥८॥
प्रकाशते सुतोत्पत्त्या मातुर्मोदस्य वारिधिः।
तत्कीर्तिश्रवणात्तस्या उद्वेलः स च जायते॥९॥
यदुदात्तां कृतिं वीक्ष्य पृच्छेयुर्जनकं जनाः।
यदीदृक् तपसा केन सुतो लब्धः स नन्दनः॥१०॥