कुरल-काव्य/परिच्छेदः ६६ शुभाचरणम्
परिच्छेदः ६६
शुभाचरणम्
मित्रत्वेन समायाति साफल्यं सर्ववस्तुषु।
शुभाचरणवृत्तिस्तु नूनं सर्वत्र कामसू:॥१॥
यतो न जायते कीर्तिर्लाभिश्चापि शुभोदयः।
वैमुख्यमेव सुश्रेयस्ततोऽस्ति हितकारकम्॥२॥
अभ्युदयं सदाराध्यं यदि लोके समीहसे।
ततकार्य तर्हि हातव्यं येन कीर्तिर्विहन्यते॥३॥
विपत्कालेऽपि येषान्तु वस्तुयाथार्थ्यनिर्णयः।
कुर्वन्ति नैव ते कर्म छुद्रं कीर्तिविराधकम्॥४॥
किं कृतन्नु मयाधेति पश्चात्तापविधायकम्।
कार्यं नैव सुधीः कुर्यात् कृतं नाम्रेडित पुनः॥५॥
विगर्हितानि सन्तीह यानि कार्याणि साधुभिः।
जनन्या अपि रक्षार्थ तानि कुर्यान्न जातुचित्॥६॥
शुभाचारवतः पुसो दारिद्रथयमपि राजते।
नत्वाचारविहीनस्य वैभवं धर्मवर्जितम्॥७॥
निषिद्धान्यपि कार्याणि यो नरो नैव मुश्चति।
सफलस्यापि तस्याहो निर्बृतिर्नैव मानसे॥८॥
विलापैरर्जिता लक्ष्मीः क्रन्दनैः सह नश्यति।
धर्मेण सञ्चिता सम्पन् मध्ये क्षीणापि वृद्धये॥९॥
आमकुम्भे भृतं नीरं यथैवास्ति निरर्थकम्।
तथैव सश्चितं वित्तं मायया परवञ्चनात्॥१०॥