कुरल-काव्य/परिच्छेदः ६५ वाक्पटुता

कुरल-काव्य
तिरुवल्लुवर, अनुवादक पं० गोविन्दराय जैन

पृष्ठ ६५

 

 

परिच्छेदः ६५
वाक्पटुता

वाग्मित्वं हि वरीवर्ति बरदानं विलक्षणम्।
तन्नांशोऽन्यस्य कस्पापि स्वतःसिद्धं तदीप्सितम्॥१॥
मृत्युर्वसति जिह्वाग्रे जिह्वाग्रे ननु जीवनम्।
अतः सुधीर्वदेद् वाणी विचार्यैव शुभां सदा॥२॥
वाचस्ता एव सुश्लाघ्या याः सक्ताः[] सख्यवर्धने।
रिपूणामपि कल्पन्ते हृदयाकर्षणाय च॥३॥
पर्यालोच्य नरः पूर्वं पश्चात् भाषेत भारतीम्।
धर्मवृद्धिरतो नान्या लाभश्चापि शुभावहः॥४॥
वाणी सैव प्रयोक्तच्या यस्यां किञ्चिन्न हेयता।
अनुल्लंघ्या च या सर्वैर्लब्धसार्वगुणोदया॥५॥
आशुविद् यः परार्थानां सुवक्ता चित्कर्षकः।
अधिकारी स एवास्ति राजनीतेर्विदांवरः॥६॥
नैव स्खलति यस्यान्तः सुवक्तुर्वादसंसदि।
कथं पराजयः शक्यस्तस्य निर्भीकचेतसः॥७॥
ओजस्वि वाड्मयं यस्य विश्वास्यं परिमार्जितम्।
तदिङ्गिते नरीनर्ति समस्तं वसुधातलम्॥८॥
शब्दैः परिमितैरेव स्वाभिप्रायप्रकाशनम्।
ये जना नैव जानन्ति तेषु वै वावदूकता॥९॥
निजार्तितं यदि ज्ञानं स्वयं व्याख्यातुमक्षमः।
नरो न शोभते तद्वन् निर्गन्ध कुसुमं यथा॥१०॥

  1. तत्परा।