कुरल-काव्य/परिच्छेदः ५७ भयप्रदकृत्यत्यागः
परिच्छेदः ५७
भयप्रदकृत्यत्यागः
सुप्रणीतं यथासीमं दण्डं दद्यात् तथा नृपः।
यथा नैव पुनर्दोषं कुर्याद् दण्डितमानवः॥१॥
स्वप्रभुत्वबलं लोके चिरं वाञ्छन्ति ये नृपाः।
मृद्वाघातकरं दण्डं ते गृह्णन्तु स्त्रपाणिषु॥२॥
योऽसिनैव प्रजाः शास्ति स भूमीशो भयावहः।
तत्सवः को भवेल्लोके तस्य नाशो विनिश्चितः॥३॥
सुविख्यातं प्रजावर्गे निर्दयं यस्य शासनम्।
अकाले स पदाद्भ्रष्टो भूत्वा याति यमालयम्॥४॥
अगम्यभीमभूपस्य वैभवं तेन सन्निभम्।
निधिना यत्र संवासो राक्षसस्य दुरात्मनः॥५॥
योऽमर्षणो नृपः क्रोधाद् व्रपीत कदुकं वचः।
समृद्धं वैभवं तस्य द्रूतं नड्क्ष्यति नड्क्ष्यति॥६॥
दण्डदान बहिःसीम नित्यं कर्कशभाषणम्।
इति शस्त्रद्वयं तीक्ष्णं छिनत्ति प्रभुतां दृढाम्॥७॥
न गृह्णाति पुरा बुद्धि मंत्रिभ्यो यो महीपतिः।
शोमं याति च वैफल्ये क्षीयते तस्य वैभवम्॥८॥
कालं लवापि येनाहो रक्षोपाया अनादृताः।
स वेपथु रणे पश्येत् स्वं स्तब्धो द्रुतपातितम्॥९॥
यच्चाटुकारिमूर्खाणां परामर्शेऽस्ति निर्भरम्।
तत कुत्स्यं शासन त्यक्त्वा को भारो भूव्यथाकरः॥१०॥