कुरल-काव्य/परिच्छेदः ५६ अत्याचारः

कुरल-काव्य
तिरुवल्लुवर, अनुवादक पं० गोविन्दराय जैन

पृष्ठ ५६

 

 

परिच्छेदः ५६
अत्याचारः

यः प्रजा बाधते नित्यमत्याचारपरायणः।
शासकोऽसौ न राजास्ति सोऽधमः किन्तु धातकात्॥१॥
शासनं यस्य हस्तेऽरित विनम्रमपि तद्वचः।
देहि सर्वं न किञ्चित्ते लुण्टाकस्य वचोनिभम्॥२॥
राज्ये शासनचक्रं यो नृपो नित्यं न वीक्षते।
न मार्ष्टिं च त्रुटीः सर्वाः प्रभुत्वं तस्य क्षीयते॥३॥
अहो तस्मिन् महाशोको निर्विचारे नरेश्वरे।
न्यायादपैति यस्तस्य राज्यं वित्तश्च नश्यति॥४॥
असंशयं नृपान्यायत्रस्तानामश्रुविन्दवः।
वाहयन्ति तदीयां हि समृद्धिं सकलामपि॥५॥
यशसा भूष्यते भूपो यदि न्यायेन शासनम्।
अकीर्त्या दृष्यते सैव यद्यन्यायेन शासनम्॥६॥
या दशा जायते क्षोण्या वर्षाशून्ये नमस्तले।
सा दशा सर्वभूतानां राज्ये निर्दयभूपतेः॥७॥
अन्यायिनो महीपस्य राज्ये सर्वेऽपि दुःखिनः।
परा हि दुर्दशा तेषु धनिनां सर्वतोऽधिका॥८॥
उच्चरते यदा दोषाद्धर्म न्यायञ्च भूपतिः।
योग्यकालेऽपि तद्रराज्ये जायतेऽवग्रहस्तदा॥९॥
न्याय्यं हि शासनं जह्याद् यदि राजा स्त्रदोषतः।
धेनुस्तन्यविलोपः स्याद् द्विजविद्या च विस्मृता॥१०॥