कुरल-काव्य/परिच्छेदः ३४ संसारानित्यता
परिच्छेदः ३४
संसारानित्यता
अहो मोहस्य माहात्म्यमज्ञानं वाथ किं परम्।
अध्रुवं यद् ध्रुवं वेत्ति न च स्वस्यैव बोधनम्॥१॥
समायाति महालक्ष्मीः प्रेक्षणे जनसंघवत्।
विनिर्याति महालक्ष्मीस्तदन्ते जनसंघवत्॥२॥
समृद्धो यदि जातोऽसि द्रुतमेव विधेहि तत्।
यत्कार्यं सुस्थिरं लोके यतो वित्तं न शाश्वतम्॥३॥
कालो यद्यपि निर्दोषः सरलश्चाथ दृश्यते।
परं कृन्तति सर्वेषामायुः क्रकचसन्निभः[१]४॥
शीघ्रतैव सदा कार्या विबुधैः शुभकर्मणि।
को हि वेत्ति कदा जिह्वा स्तब्धा स्यात् सह हिक्कया॥५॥
ह्य एव मनुजः कश्चिदासीदखिलगोचरः।
स एवाध नरो नास्ति नूनमित्येव विस्मयः॥६॥
को जानाति पलस्यान्ते जीवन मे भवेन्न वा।
परं पश्यास्य संकल्पान् कोटिशो हृदि संस्थितान्॥७॥
पत्त्रं प्राप्य यथा पत्त्री स्फुटिताण्डं विहाय च।
उड्डीयते तथा देही देहाद् याति स्वकर्मतः॥८॥
असौ मृत्युः समाम्नातो निद्रातुल्यो विदाम्बरैः।
जीवनं तस्य विच्छेदः स्वापाज्जागृति सन्निभम्॥९॥
आत्मनो वै निजावास: फिंस्विन्नास्तीह भो जनाः।
हीनस्थाने यतो देहे भुङ्क्ते वासेन पीडनम्॥१०॥
- ↑ क्रपत्रसद्दश।