कुरल-काव्य/परिच्छेदः ३३ अहिंसा
परिच्छेदः ३३
अहिंसा
अहिंसा परमो धर्मों धर्मेषु श्रेष्ठसम्मतिः।
हिंसा च सर्वपापानां जननी लोकविश्रुता॥१॥
इदं हि धर्म सर्वस्यं शास्तृणां वचने द्वयम्।
क्षुधार्तेन समं मुक्ति: प्राणिनाञ्चैव रक्षणम्॥२॥
अहिंसा प्रथमो धर्मः सर्वेषामिति सम्मतिः।
ऋषिभिर्बहुधा गीतं सूनृतं तदनन्तरम्॥३॥
अयमेव शुभो मार्गों यस्मिन्नेवं विचारणा।
जीवः कोऽपि न हन्तव्यः क्षुद्रात्क्षुद्रतरोऽपि सन्॥४॥
हिसां दूरात् समुत्सृज्य येनाहिंसा समादृता।
उदात्तः स हि विज्ञेयः पापत्यागिषु वै ध्रुवम्॥५॥
अहिसाबतसम्पन्नो धन्योऽस्ति करुणामयः।
सर्वग्रासी यमोऽप्यस्य जीवने न क्षमो भवेत्॥६॥
विपत्तिकाले सम्प्राप्ते प्राप्ते च प्राणसंकटे।
तथाप्यन्यप्रियप्राणान् मा जहि त्वं दयार्द्रधीः॥७॥
श्रूयते बलिदानेन लभ्यन्ते वरसम्पदः।
पवित्रस्य परं दृष्टौ तास्तुच्छाश्च घृणास्पदाः॥८॥
येषां जीवननिर्वाहो हिंसायामेव निर्भरः।
विबुधानां सुदृष्टौ ते मृतस्वादकसन्निभाः॥९॥
पूतिगन्धसमायुक्तं पश्य शीर्ण कलेवरम्।
स घातकचरो नूनं बुधैरित्यनुमीयते॥१०॥