कुरल-काव्य/परिच्छेदः २ मेघमहिमा

कुरल-काव्य
तिरुवल्लुवर, अनुवादक पं० गोविन्दराय जैन

पृष्ठ २

 

परिच्छेदः २
मेघमहिमा

यथासमयसंजाता वृष्टिर्यस्योपकारिणी।
वारिवाहः सुधारूपस्तेनेदं वर्तते जगत्॥१॥
सर्वस्वादिष्टखाद्यानां मूलं जलद उच्यते।
नेदमेव स्वयं वारि भोजनाङ्गं प्रतिष्ठितम्॥२॥
मेघवृष्टिं बिना लोके दुर्भिक्षं संग्रजायते।
समन्तात् सागरैर्युक्ता भूरपि स्यात् प्रपीडिता॥३॥
जीवनाधारभूतानि स्वर्गस्रोतांसि वारिदाः।
विलीनाश्चेत् कृषि नृनमहास्यन् हलजीविनः॥४॥
अतिवृष्टिबलाञ्जाताः क्षीणा ये किल मानवाः।
समृद्धास्ते हि भूयोऽपि जायन्ते वारिवर्षणात्॥५॥
खात् पतन्ती पयोवृष्टिर्विरता चेत् कदाचन।
तृणजन्मविलुप्तिः स्यादन्येषां दूरगा कथा॥६॥
बीभत्सदारुणावस्था जायेताहो सरित्पतेः।
तज्जलस्य ग्रहोत्सगौं न कुर्याच्चेत् पयोधरः॥७॥
देवानां परितोषाय सपर्या पंक्तिभोजनम्।
सर्वाण्येतानि लुप्यन्ते विलुप्ते व्योम्नि वारिदे॥८॥
दानिनां दानकर्माणि शूराणां चैव शूरता।
जपहोमक्रियाः सर्वा नष्टा नष्टे वलाहके॥९॥
संभवन्ति समस्तानि कार्याणि जलदागमे।
सदाचारोऽपि तेनैव विदुषामेष निश्चयः॥१०॥