कुरल-काव्य/परिच्छेदः १ ईश्वरस्तुतिः
परिच्छेदः १
ईश्वरस्तुतिः
'अ' वर्णों वर्तते लोके शब्दानां प्रथमो यथा।
तथादि भगवानस्ति पुराणपुरुषोत्तमः॥१॥
यदि नो यजसे पादौ सर्वज्ञपरमेष्ठिनः।
अखिलं तर्हि वैदुष्यं मुधा ते शास्त्रकीर्तने॥२॥
वर्तेते पावनौ पादौ स्वर्णाम्भोजविहारिणः।
शरण्यौ हृदये यस्य स नूनं चिरमेधते॥३॥
वीतरागस्य देवस्य रक्तः पादारविन्दयोः।
यो धन्यः स पुमॉल्लोके दुःखी न स्यात् कदाचन॥४॥
उत्साहेन समायुक्ता नित्यं गायन्ति ये प्रभोः।
गुणान्, भवन्ति ते नैव कर्मदुःखोपभोगिनः॥५॥
आत्मना जयिना तेन यो धर्माध्वा प्रदर्शितः।
तं नित्य येऽनुगच्छन्ति ते नून दीर्घजीविनः॥६॥
दुःखजालसमाकीर्णेऽगाधे संसारसागरे।
कृच्छ्रान्मुक्तः स एवास्ति यस्यैकः शरणं प्रभुः॥७॥
धर्मसिन्धोर्मुनीशस्य लीना ये पदकंजयोः।
त एव तरितुं शक्ताः क्षुब्धं तारुण्यवारिधिम्॥८॥
निष्क्रियेन्द्रियसंकाशा[१] मानवास्ते महीतले।
पादद्वयं नमस्यन्ति[२] ये नाष्टगुणधारिणः॥९॥
जन्ममृत्युमहाम्मोघेः पारं गच्छन्ति ते जनाः।
पावनौ शरणं येषां योगीन्द्रचरणौ ध्रुवम्॥१०॥