कुरल-काव्य/परिच्छेदः ८९ गृहभेदी

कुरल-काव्य
तिरुवल्लुवर, अनुवादक पं० गोविन्दराय जैन

पृष्ठ ८९

 

 

परिच्छेदः ८९
गृहभेदी

कुञ्जः पुष्करवर्षी च नूनं चेद् रोगवर्द्धकौ।
अप्रियौ भवतस्तद्वद् बन्धुरप्यहितः परः॥१॥
तस्माद् द्विषो न भेतव्यं योऽस्ति नग्नासिसन्निमः।
भेतव्यं हि ततोऽमित्रादैति[] यो मित्रकैतवात्॥२॥
अप्रमत्तो निजं रक्षेदन्तर्दिष्टाद् रिपोः सुधीः।
कर्त्स्यत्यवसरे शत्रुरन्यथा चक्रिसूत्रवत्॥३॥
अहितो यदि ते कश्चिन् मित्रत्वं यत्र न्यस्यते।
स भेदमुपसंधाय विधास्यति विपद्गृहम्॥४॥
स्वजना यदि संक्रुद्धाः स्वयं विद्रोहभाजिनः।
सभिपाते विपत्तीनां जीवनं तर्हि यास्यति॥५॥
आस्थाने यस्य भूपस्य विद्यते कपटस्थितिः।
एकदा सोऽपि तद् दोषात् तस्या लक्ष्यं भविष्यति॥६॥
थयोर्भेदस्तयोरैक्यं नैव दृष्टं महीतले।
पिधानेनावृतं पात्रं भिन्नमेव स्वरूपतः॥७॥
भेदबुद्धिर्गृहे येषां भूमिसाद्वै भवन्ति ते।
धर्षणीयंत्रसंमिन्नलोहस्य कणका यथा॥८॥
पारस्परिकसंघर्षः स्वल्पोऽपि तिलसअिभः।
यत्रास्ति तत्र सर्वस्वनाशो नृत्यति मस्तके॥९॥
विद्विष्टेन समं ब्रूते प्रतिपत्तिं विनैव यः।
उटजे फणिना साकं नूनं वासं करोति सः॥१०॥

  1. आगच्छति।