कुरल-काव्य/परिच्छेदः ८७ शत्रपरीक्षा

कुरल-काव्य
तिरुवल्लुवर, अनुवादक पं० गोविन्दराय जैन

पृष्ठ ८७

 

 

परिच्छेदः ८७
शत्रपरीक्षा

सबलेनारिणा साकं न योद्धव्यं मनीषिणा।
अविश्रम्य क्षणं किन्तु संयुध्याशक्तवैरिणा॥१॥
यस्य निर्दयिनः केऽपि नैव सन्ति सहायकाः।
अशक्तश्च स्वयं सोऽयमाक्रामति कथं रिपुम्॥२॥
प्रतिभा धैर्यमौदार्य यत्र नास्ति गुणत्रयी।
प्रत्यन्तराज्यविद्वेषी सुजय्यः स महीपतिः॥३॥
जिह्वा यस्य वशे नास्ति कटुर्यश्च निसर्गतः।
न्यक् कियते स भूपालो सर्वैः सर्वत्र भूतले॥४॥
अदक्षो योऽस्ति कर्तव्ये स्वमानानभिरक्षकः।
राजनीते रसंवेदी स नृपो रिपुमोददः॥५॥
किङ्करो यस्तु लिप्सानां चण्डो वा बुद्धि वर्जितः।
सपत्नास्तस्य भूपस्य वैरार्थ स्वागतोद्यताः॥६॥
कार्य प्रारभ्य पश्चाद् यो वैफल्याय विचेष्टते।
मूल्यं दत्त्वापि तद्वैरं गृहणीयाद् हितवान्नरः ॥७॥
नैकोऽपि सद्गुणो यत्र दोषाणां किन्तु राशयः।
तस्य मित्रं न कोऽपि स्यादमित्रानन्दवर्षिणः॥८॥
बालिशैः कातरैः साकं यदि युध्यन्ति शत्रवः।
तदा भवति तेषां तु प्रवृद्धो हर्षसागरः॥९॥
पार्श्वस्थ राजभिर्मूढैः सार्ध यो नैव युध्यति।
जयाय यत्नहीनश्च स राजा नो प्रतिष्ठितः॥१०॥