कुरल-काव्य/परिच्छेदः ७६ धनोपार्जनम्

कुरल-काव्य
तिरुवल्लुवर, अनुवादक पं० गोविन्दराय जैन

पृष्ठ ७६

 

 

परिच्छेदः ७६
धनोपार्जनम्

तुच्छोऽपि गुरुतां याति विश्रुतिश्चाप्यविश्रुतः।
धनेन मनुजो ह्येवं शक्तिः क्कान्यत्र दृश्यते॥१॥
निर्धनानां हि सर्वत्र न्यक्कारः खलु जायते।
धनिकानाञ्च सर्वत्र प्रतिपत्तिर्विवद्धते॥२॥
अविश्रान्तमहज्ज्योतिरहो वित्तं हि भूतले।
स्थानं तमोवृतं येन ज्योत्स्नापूर्ण विधीयते॥३॥
निर्दोषैः पापशून्यैर्यत् साधनैः प्राप्यते वसु।
ततो वहन्ति स्रोतांसि सुखस्य सुकृतस्य च॥४॥
यद्धनं दयया रिक्तं प्रेमशून्यश्च विद्यते।
तज्जिघृक्षा न कर्तव्या स्पर्शो वा तस्य नो वरः॥५॥
दण्डद्रव्यं मृतद्रव्यं करस्वं शुल्कजं धनम्।
युद्धद्रव्यञ्च भूपस्य कोषसंवृद्धिहेतवः॥६॥
अनुकम्पा हि भूतानां विद्यते प्रेमसंततिः।
तत्पालनाय धात्र्येषा सम्पत्तिः करुणाभृता॥७॥
गिरिशृङ्गाद् यथा निर्भाः प्रेक्षते करिणो रणम्।
तथा कार्य समारभ्य शङ्का नाप्नोति वित्तवान्॥८॥
यदीच्छसि रिपुं जेतुं कर्तव्यस्तर्हि संग्रहः।
द्रविणस्य यतोऽमोघं शस्त्रमेतज्जयैषिणाम्॥९॥
येन स्वपौरुषात् पुंसा सञ्चितं हि महाधनम्।
करमध्ये स्थितौ तस्य धर्मकामावुभावपि॥१०॥