कुरल-काव्य/परिच्छेदः ६९ राजदूतः

कुरल-काव्य
तिरुवल्लुवर, अनुवादक पं० गोविन्दराय जैन

पृष्ठ ६९

 

 

परिच्छेदः ६९
राजदूतः

लोकपूज्ये कुले जन्म हृदयं करुणामयम्।
नृपाणां मोददातृत्वं राजदूतगुणा इमे॥१॥
निसर्गात् प्रेमवृत्तित्वं वारिग्मत्वं विस्मयावहम्।
प्रतिभावत्वञ्च दूतानां त्रयो ह्यावश्यका गुणाः॥२॥
स्वामिलाभाय येनात्तो[] भारो भूपतिमण्डले।
आवश्यकं हि तद्वाण्यां पाण्डित्यं सर्वतोऽधिकम्॥३॥
प्रभावजननी यस्य मुखमुद्रास्ति पश्यताम्।
विद्याविभूषितो यश्च स दूतार्हों महीभुजाम्॥४॥
संक्षेपभाषणं वाण्यां माधुर्य कट्वभाषणम्।
सुदूताः साधनैरेतैः कुर्वन्ति स्वामिनो हितम्॥५॥
प्रभावोत्पादिका वाणी वैदुष्यं समयज्ञता।
प्रत्युत्पन्नमतित्वञ्च दुतस्य प्रथमे गुणाः॥६॥
स्थानावसरकर्त्तव्यबोधे यस्यातिपाटवम्।
आलोचितोक्तशब्दो यः स दूतो दूत उच्यते॥७॥
निसर्गहृदयग्राही विशुद्धात्मा सदाशयः।
हक्षाश्च यस्य संकल्पास्तं दूत्ये[] खलु योजयेत्॥८॥
आवेशादपि न ब्रूते दुर्वाक्यं यो विचक्षणः।
परराष्ट्रे स एवास्ति योग्यः शासनहारका॥९॥
च्यवन्ते नैव कर्तव्यात् प्राणैः कण्ठगतैरपि।
सुदतः पूर्णयत्नेन साधनोति स्वामिनो हितम्॥१०॥

  1. गृहीतो।
  2. दूतवाणीग्म्याश्चेति यत्।