कुरल-काव्य/परिच्छेदः ६३ विपदि धैर्यम्

कुरल-काव्य
तिरुवल्लुवर, अनुवादक पं० गोविन्दराय जैन

पृष्ठ ६३

 

 

परिच्छेदः ६३
विपदि धैर्यम्

हसन् भव पुरोभागी विपत्तीनां समागमे।
विपदां हि जये हासः सहायः प्रबलो मतः॥१॥
अव्यवस्थितचित्तोऽपि भवन्नेकाग्रमानसः।
विपदां चेत् पुरःस्थायी तत्क्षुब्धाब्धिः प्रशाम्यति॥२॥
विपदो मन्यते नैव विपदो यो हि मानवः।
ध्रुवं तस्य निवर्तन्ते विपन्नाः स्वयमापदः॥३॥
प्राणेषु त्यक्तमोहः सन् यतते यो लुलायवत्[]
जेतुं सर्वाषदस्तस्य हताशाः प्रतियान्ति ताः॥४॥
स्वविपक्षे विपत्तीनां सज्जितां महतीं चमूम्।
दृष्ट्वापि यस्य नाधैर्यं ततो विम्पति ताः स्वयम्॥५॥
नासीत् सौभाग्यकालेऽपि प्रमोदो यस्य सद्मनि।
स कथं कथयेत् सर्व 'हा संप्रति विपद्धतः'॥६॥
इति वेत्ति स्वयं प्राज्ञो यद्देहो विपदां पदम्।
अतएव विपन्नोऽपि नानुशोचति पण्डितः॥७॥
यो विलासप्रियो नास्ति मन्यते चापदस्तथा।
सहजा जन्मना साकं स दुःखातों न जायते॥८॥
यस्य नास्ति महाहर्षः सम्पत्तीनामुपागमे।
विषादोऽपि कथं तस्य भवेत् तासामपागमे॥९॥
मन्यते सुखमायासे वर्षावेगद्वये च यः।
तं स्तुवन्ति महाधीर विरुद्धा अपि वैरिणः॥१०॥

  1. महिष इब।