कुरल-काव्य/परिच्छेदः ६१ आलस्यत्यागः
परिच्छेदः ६१
आलस्यत्यागः
आलस्यं कुत्सितो वायुः पिण्डाघातेन यस्य हा।
लुप्यते राजवंशस्याखण्डज्योतिर्धरातलात्॥१॥
अयमालस्यवानित्थं भाषन्तां मानवा वरम्।
किन्त्वालस्यं स्वयं बुद्ध्वा हेयं वंशोनिनीषुणा॥२॥
घातकं रोचते यस्मा आलस्यं पश्य तं जडम्।
सह्यभागी स्वयं पश्येजीवन्नेव कुलक्षयम्॥३॥
आलस्यादुच्चकार्येषु येषां हस्तो न वर्तते।
तद्गृहं क्षीणता प्राप्य सङ्कटेषु पतिष्यति॥४॥
कालस्य यापनं निद्रा शैथिल्यं विस्मृतिस्तथा।
उत्सवस्य महानावः सन्त्येता हतमागिनः॥५॥
आलस्यर्निरतो लोकः कृपां लब्ध्वापि भूपतेः।
कर्तुं समुन्नति नैव शक्नोति जगतीतले॥६॥
येषामुदात्तकार्येषु व्यापारो नास्ति हस्तयो।
न्यकारं वा घृणां नित्यं सहन्ते ते प्रमादिनः॥७॥
आलस्यमन्दिरं लोके जायते यत्कुटुम्बकम्।
विपद्यते सपत्नानां क्षिप्रमेव करेषु तत्॥८॥
विपदुन्मुखोऽपि लोकोऽयं चेत् स्याद् विगतालसः।
स्तभ्नन्ति तर्हि तत्रैवायान्तोऽपि क्रूरसंकटाः॥९॥
यो न वेत्ति महीपाल आलस्य नित्यकर्मयुक्।
त्रैक्रमैर्मितां पादैः स शास्ति सकलामिलाम्॥१०॥