कुरल-काव्य/परिच्छेदः ५३ बन्धुता
परिच्छेदः ५३
बन्धुता
एकैव बन्धुता यत्र स्नेहस्थैर्य विलोक्यते।
अन्यथा विपदां चक्रे क्व च तस्यास्ति दर्शनम्॥१॥
गुणाढ्ये यत्र बन्धूनां स्नेहो नैवापचीयते।
तस्य भाग्यवतो वृद्धे: कोऽपि नास्ति निरोधकः॥२॥
भूत्वा सहृदयो येन बन्धुस्नेहो न लभ्यते।
तथैव विद्यते सोऽयं निराधारं सरो यथा॥३॥
वैभवस्य किमुद्देशः किं फलं वाथ विद्यते।
सम्बन्धिनां समाह्वानं प्रतिपत्त्या च मोहनम्॥४॥
वाण्यां यस्यातिमाधुर्यमौदार्यश्च करे तथा।
तस्य गेहं समायान्ति बन्धवो बद्धपंक्तयः॥५॥
सार्वं यस्यामितं दानं क्रोधशून्यञ्च जीवनम्।
लोकबन्धुः स एवास्ति पश्यान्विष्य महीतलम्॥६॥
काको भक्ष्यं यथा स्वार्थाद् बन्धुभ्यो न निगूहते।
एवं हि प्रकृतिर्यस्य वैभव तस्य सद्मनि॥७॥
राजा यथागुणं बन्धून् सत्कुर्याद् गुणरागतः।
अन्यथा बहवः सन्ति स्वस्वत्वामर्षिणो जनाः॥८॥
विरागहेतोः संत्यागादपरागोऽपि हीयते।
एवं चित्तविशुद्धया तु गताप्यायाति बन्धुता॥९॥
त्यक्तस्नेहोऽपि बन्धुश्चेद् भूयोऽप्ययाति बन्धुताम्।
सहर्षो मिलतेनामा धृत्वा किन्तु सतर्कताम्॥१०॥