कुरल-काव्य/परिच्छेदः ४९ अवसरसमीक्षा
परिच्छेदः ४९
अवसरसमीक्षा
जयत्यवसरं प्राप्य दिवोलूकं हि वायसः।
एवञ्चाक्सरो हेतुर्विजये भूपतेरपि॥१॥
समयं वीक्ष्य कार्याणां करणं मन्यते बुधः।
प्रेमरज्वा स्वसौभाग्यश्रियो हि दृढबन्धनम्॥३॥
क्षेत्रं साहाय्यसम्पत्तिं पूर्व वीक्ष्य करोति यः।
कार्य साघनविज्ञातुस्तस्यास्ति किमसम्भवम्॥३॥
यदि स्ववसरं वेत्सि साधनानि तथैव च।
शक्रोषि निजवीर्येण विजेतुं जगतीतलम्॥४॥
कार्यकालं प्रतीक्षन्ते जोषं हि जयरागिणः।
न क्षुभ्यन्ति कदाचित्ते नाप्युत्तापविधायिनः॥५॥
संघातकरणात् पूर्वं यथा मेषोऽपसर्पति।
तथाऽकर्मण्यता लोके कर्मण्यस्यापि दृश्यते॥६॥
अमर्षस्य प्रकाशो हि त्वरितं नैव धीमताम्।
तं गुप्तं हृदये कृत्वा तत्कालं स प्रतीक्षते॥७॥
विनेतव्यो रिपुस्तावद् यावत्तस्य शुभोदयः।
विनिपातो यदा तस्य सुखोच्छेद्यस्तदा हि सः॥८॥
अमोघकालं संप्राप्य विचिकित्सां विहाय च।
क्षिप्रमेव विधातव्यं कार्य चेदपि दुष्करम्॥९॥
पूर्व निश्चेष्टवद्भाति वामे काले विचक्षणः।
अनुकूले पुनः काले वकवद् वाधते रिपुम्॥१०॥