कुरल-काव्य/परिच्छेदः ४६ कुसङ्गपरित्यागः
परिच्छेदः ४६
कुसङ्गपरित्यागः
भद्रो बिभेति दुःमंगात् परः संगच्छते तथा।
अभद्रेण समं नित्यं यथा स्यात् तत्कुटुम्घभाक्॥१॥
यथाभूमौ वहत्यम्भस्तत्तथा परिवर्तते।
यादृशी संगतिस्तस्य पुरुषोऽपि तथाविधः॥२॥
बुद्धर्यद्यपि सम्बन्धो मस्तकादेव वर्तते।
यशसः किन्तु सम्बन्धो गोष्ठया उपरि निर्भरः॥३॥
ज्ञायते हृदये वासः स्वभावस्य सदा जनैः।
परं तस्य निवासस्तु तद्गोष्ठयां यत्र स स्वयम्॥४॥
मनसः कर्मणश्चापि शुद्धेर्मूलं सुसंगतिः।
तद्विशुद्धौ यतः सत्यां संशुद्धिर्जायते तयोः॥५॥
पवित्रं हृदयं यस्य संततिस्तस्य पुण्यमाक्।
यावज्जीवमसौ भद्रः समृद्धः सन् सुखायते॥६॥
मनःशुद्धिर्मनुष्यस्य निधानं वसुधातले।
सत्संगश्च ददातीह गौरवं गुणवत्तरम्॥७॥
आकग गुणरत्नानां स्वयं सन्ति मनीषिणः।
सत्संगति तथाप्यते मन्यन्ते शक्तिमन्दिरम्॥८॥
धर्मो गमयति स्वर्ग पुण्यात्मानं विकिल्विषम्।
धर्मप्राप्त्यै च सद्वृत्ते नियुङ्क्ते सा सुसंगतिः॥९॥
सत्संगादपरो नास्ति जनस्य परमः सखा।
दुःसंगाच परो नास्ति हानिकर्ता महीतले॥१०॥