कुरल-काव्य/परिच्छेदः ३१ क्रोधत्यागः

कुरल-काव्य
तिरुवल्लुवर, अनुवादक पं० गोविन्दराय जैन

पृष्ठ ३१

 

 

परिच्छेदः ३१
क्रोधत्यागः

सत्यां निग्रहशक्तौ हि क्रोधत्यागः सुशोभते।
यतः शक्तिविहीनस्य क्षान्त्याऽक्षान्त्या च किं भवेत्॥१॥
अथ चेन निग्रहेऽशक्तिस्तदा कोपो निरर्थकः।
अथ चेन् निग्रहे शक्तिस्तदा कोपो घृणास्पदः॥२॥
हानिकर्ता भवेत् कोऽपि कोपो हेयस्तथापि सः।
अनर्था येन जायन्ते शतशो दुःखदायिनः॥३॥
मोदं विहन्ति कोपोऽयमानन्दथ्वनसकारकः।
अन्यो नास्ति ततः कोऽपि शत्रुर्हानिविधायकः॥४॥
भद्रमिच्छसि[] चेद् भद्र कोपं मुञ्च सुदूरतः।
अन्यथाऽऽक्रम्य शीघ्रं ते स विनाशं विधास्यति॥५॥
अग्निर्दहति तद्वस्तु तत्पार्श्वे यस्य संस्थितिः।
भस्मीकरोति कोपस्तु क्रुध्यन्तं सकुटुम्बकम्॥६॥
निधाय हृदि रोषं यो निधानमिव रक्षति।
भूमिं संताड्य हस्तेन पीडितः स प्रमत्तवत्॥७॥
सम्प्राप्य महतीं हानिं क्रोधाग्नौ संज्वलत्यपि।
इदं भद्रतरं नूनं यत् कोपाद्भव दूरगः॥८॥
त्वरितं तस्य सिध्यन्ति सर्व एव मनोरथाः।
येन दूरीकृतो नित्यं क्रोधोऽयं शान्तचेतसा॥९॥
स्वयशे नैव यश्चण्डः[] स नूनं मृतसन्निमः।
यश्च कोपपरित्यागी योगितुल्यो विभाति सः॥१०॥

  1. वल्याणम्।
  2. अत्यन्तकोपी।