कुरल-काव्य/परिच्छेदः २९ निष्कपटव्यवहारः

कुरल-काव्य
तिरुवल्लुवर, अनुवादक पं० गोविन्दराय जैन

पृष्ठ २९

 

 

परिच्छेदः २९
निष्कपटव्यवहारः

घृणितं यदि नो लोके निजात्मानं दिदृक्षसि।
स्वस्यात्मानं ततो नित्यं कपटाद्रक्ष यत्नतः॥१॥
सर्व वित्तं हरिष्यामि मायया प्रतिवेशिनः।
एवं हार्दिकसंकल्पः पापाय परिकल्पते॥२॥
कपटप्रभवं द्रव्यं वरं वर्द्धिष्णु भासताम्।
अन्ते नाशः परं तस्य नियतोऽस्तीति निश्चयः॥३॥
अपहारपिपासेयं समृद्धरेप्यनेहसि।
अनन्तसंख्यकं दुःखं प्रत्येव नयति ध्रुवम्॥४॥
परस्वं गृध्नुदृष्ट्या यो हर्तुं कालं प्रतीक्षते।
दयास्थान न तच्चित्ते प्रेमवार्ता च दूरगा॥५॥
नापैति गृध्नुता यस्य लुण्ठित्वाप्यन्यसम्पदम्।
वस्तुमूल्यं न तद्‌दृष्टौ सुपथञ्च न याति सः॥६॥
संसारासारतां ज्ञात्वा लब्धबोधः पवित्रदृक्।
पार्श्वस्थवञ्चनादोषं कुरुते नैव धन्यधीः॥७॥
आर्याणां राजते चित्ते निसर्गादृजुता यथा।
मायित्वस्य निवासस्तु चौराणां हृदये तथा॥८॥
तस्मिन् कारुण्यमायाति यत्रान्या नास्ति कैतवात्।
वार्ता विमुच्य सन्मार्ग विनाशं स प्रयास्पति॥९॥
निजदेहेऽपि स्वामित्वं वञ्चकानां विनश्यति।
दायादाः किन्तु निर्बाधाः स्वर्गभूमेरमायिनः॥१०॥