कुरल-काव्य/परिच्छेदः २७ तपः

कुरल-काव्य
तिरुवल्लुवर, अनुवादक पं० गोविन्दराय जैन

पृष्ठ २७

 

 

परिच्छेदः २७
तपः

सर्वेषामेव जीवानां हिंसाया विरतिस्तथा।
शान्त्या हि सर्वदुखानां सहनं तप इष्यते॥१॥
तपो नूनं महत्तेजस्तेजस्विन्येव शोभते।
निस्तेजसि तपः किन्तु निष्फलं जायते सदा॥२॥
ऋषीणां परिचर्यार्थ केचिदावश्यका जनाः।
इतीव न तपस्यन्ति किमन्ये धर्मवत्सलाः॥३॥
रिपूणां निग्रहं कर्तुं सुहृदाञ्चाप्यनुग्रहम्।
यदीच्छा तर्हि तप्यस्व तपस्तद् द्वायसाधनम्॥४॥
सर्वेषामेव कामानां सुसिद्धौ साधनं तपः।
अतएव तपस्यार्थं यतन्ते सर्वमानवाः॥५॥
ये कुर्वन्ति तपो भक्तथा श्रेयः कुर्वन्ति तेऽञ्जसा।
अन्ये तु लालसावद्धा आत्मनो हानिकारकाः॥६॥
यथा भवति तीक्ष्णाग्निस्तथैबोज्जवलकाश्चनम्।
तपस्येवं यथाकष्टं मनःशुद्धिस्तथैव हि॥७॥
प्रभुत्वं वर्तते यस्य स्वस्यात्मन्येव वस्तुनि।
सम्पूजन्ति तं सर्वे निष्कामं पुरुषोत्तमम्॥८॥
शक्तिसिद्धीउभेयस्य संप्राप्ते तपसोबलात्।
मृत्योरपि जये तस्य साफल्यं दृश्यते स्फुटम्॥९॥
अतृप्ताः सन्त्यसंख्याता अभिलाषावशंवदाः।
अधिका हि तपोहीना विरलाश्च तपस्विनः॥१०॥