कुरल-काव्य/परिच्छेदः २३ दानम्

कुरल-काव्य
तिरुवल्लुवर, अनुवादक पं० गोविन्दराय जैन

पृष्ठ २३

 

परिच्छेदः २३
दानम्

दीनाय दुःखपात्राय यद्दानं तत्प्रशस्यते।
अन्यत् सर्वन्तु विज्ञेयमुद्धारसदृशं पुनः॥२॥
दानादाने[] हि न श्रेयः स्वर्गोऽपि प्राप्यते यदि।
दानश्च परमो धर्मः स्वर्गद्वारेऽपि मुद्रिते॥२॥
प्रशंसार्हाः सतां मान्या ननु सर्वेऽपि दानिनः।
परं तेषु कुलीनः स यः पूर्वं न निषेधति॥३॥
तावन्न मोदते दानी यावन्नासौ विलोकते।
सन्तोषजनितं हर्षमर्थिनो मुखमण्डले॥४॥
विजयेषु समस्तेषु श्रेष्ठः स्वात्मजयो मतः।
ततोऽपि विजयः श्रेष्ठः परेषां क्षुत्प्रशामनम्॥५॥
आर्तक्षुधाविनाशाय नियमोऽयं शुभावहः।
कर्तव्यो धनिभिर्नित्यमालये वित्तसंग्रहः॥६॥
इतरानपि संभोज्य यो भुङ्क्ते दययान्वितः।
नैव स्पृशति तं जातु क्षुधारोगो भयङ्करः॥७॥
सञ्चिनीति विनाशाय संकीर्णहृदयो धनम्।
ज्ञायते तेन न ज्ञातो दानस्य मधुरो रसः॥८॥
एकाकी कृपणो भुड्क्ते यदन्नं प्रीतिसंयुतः।
अनार्यजुष्टमस्वर्ग्यं भिक्षान्नात् तद् घृणास्पदम्॥९॥
मृत्युरेव हि तद्वस्तु यत्सर्वाधिकमप्रियम्।
दानशक्तरेसद्भावे चित्रमेषोऽपि रोचते॥१०॥

  1. दानग्रहणे।