कुरल-काव्य/परिच्छेदः १९ पैशुन्यपरिहारः
परिच्छेदः १९
पैशुन्यपरिहारः
शुभं न रोचते यस्मै कुकृत्येषु रतश्च यः।
सोऽपीदं मोदते श्रुत्वा यदसौ नास्ति सूचकः॥१॥
शुभादशुभसंसक्तो नूनं निन्धस्ततोऽधिकः।
पुरः प्रियम्बदः किन्तु पृष्ठे निन्दपरायण:॥२॥
अलीकनिन्दितालापिजीवितान् मरणं वरम्।
एवं कृते न नश्यन्ति पुण्यकार्याणि देहिनः॥३॥
अवाच्यं यदि केनापि प्रत्यक्षे गदितं त्वयि।
तस्य पृष्ठे तथापि त्वं मा भूर्निन्दापरायणः॥४॥
मुखेन भाषतां बह्वीं शुभोर्क्ति पिशुनो वरम्।
सूचयत्येव तज्जिह्वा निम्नत्वं किन्तु चेतसः॥५॥
त्वया यदि परे निन्धा: स्युस्त्वां तेऽपि रुषान्विताः।
दर्शयित्वा महादोषान् निन्दिष्यन्ति तवाहिताः॥६॥
मैत्रीरसं न जानाति न चापि मधुरं वचः।
स एव भेदमाधत्ते मित्रयोरेककण्ठयोः॥७॥
पुरस्तादेव सर्वेषां मित्रं निन्दन्ति ये नराः।
तैः शत्रवः कथं निन्धा न स्युरिति विचार्यताम् ।।८।।
निन्दाकर्तुः पदाघातं सहते स्वोरसि[१] क्षमा[२]।
तद्भारायैव सा धर्म वीक्षते कि मुहुर्मुहुः॥९॥
अन्यदीयमिवात्मीयमपि दोषं प्रपश्यता।
कः समः खलु मुक्तोऽयं दोषवर्गेण सर्वदा॥१०॥