कुरल-काव्य/परिच्छेदः १०४ कृषिः

कुरल-काव्य
तिरुवल्लुवर, अनुवादक पं० गोविन्दराय जैन

पृष्ठ १०४

 

 

परिच्छेदः १०४
कृषिः

नरो गच्छतु कुत्रापि सर्वत्रान्नमपेक्षते।
तसिद्भिश्च कृषेस्तस्मात् सुभिक्षेऽपि हिताय सा॥१॥
कृषीवला धुरा तुल्या देशरूपस्य चक्रिणः।
अकृपाणा यतः सन्ति नूनं तदुपजीविनः॥२॥
ये जीवन्ति कृषि कृत्वा ते नराः सत्यजीविनः।
परपिण्डादिनः किन्तु सर्वेऽन्ये सन्ति मानवाः॥३॥
स्निग्धच्छायासु सस्यानां क्षेत्राणि यस्य शेरते।
तद्देशीयनृपच्छत्रादधः स्युश्छत्रिणः परे॥४॥
अभिक्षुकाः परं नैव दानिनोऽप्यनिषेधकाः।
ते सन्ति ये कृषि नित्यं कुर्वते साधुमानवाः॥५॥
कृषीवलाः कृषः कार्याद् विरताश्चेत् कथश्चन।
सन्यासिनोऽपि ये जातास्तेऽपि स्युर्ववपीडिताः॥६॥
जलार्द्रा खलु चेन्मृत्स्ना शोषयेत् ता रवेः करैः।
तुर्याशस्यावशेषे सा निखाद्यापि बहूर्वरा॥७॥
कर्षणात् खाद्यदानेषु निन्द्यदानादनन्तरम्[]
अम्बुसेकाच रक्षायां भवन्ति बहवो गुणाः॥८॥
यः पश्यति कृषि नैव गृहे नित्यमवस्थितः।
सुभार्येव कृषिस्तस्मै कुप्यति क्षीणदेहिका॥९॥
भक्षणाय न मे किञ्चिदस्तीति वचनं भृशम्।
वदन्तं क्रन्दमानञ्च हसत्युर्वीरमालसम्[]॥१०॥

  1. निन्द्यतृणखण्डनात्।
  2. पृथ्वीलक्ष्मीरलसम्।