कुरल-काव्य/परिच्छेदः १०१ निरुपयोगिधनम्
परिच्छेदः १०१
निरुपयोगिधनम्
निजगेहे कृतो येन विपुलस्त्वर्थसंग्रहः।
व्यये किन्तु कदर्योऽस्ति ततो मृतवदेव सः॥१॥
धनमेव परं वस्तु वर्तते वसुधातले।
इत्यर्थाय मृतो गृघ्न् राक्षसोऽमुत्र जायते॥२॥
वित्तार्थन्तु महोत्साहः कीर्त्यै किन्तु निरादरः।
येषां ते सन्ति निस्सारा भुवो भाराय केवलाः॥३॥
स्वस्मिन् नैवार्जिता येन सुप्रीतिः प्रतिवेशिनाम्।
आशा कास्ति पुनस्तस्य प्राणान्ते यां समुत्सृजेत्॥४॥
न दत्ते नापि भुङ्क्ते यो लोभोपहतमानसः।
जातु चेत् कोट्यधीशोऽपि वस्तुतः सोऽस्ति निर्धनः॥५॥
परस्मै ददते नै भुञ्जते नापि ये स्वयम्।
ते सन्ति कुपणा लोके स्वलक्ष्म्या रोगरूपिणः॥६॥
देशे काले च पात्रे च यद्वित्तं नैव दीयते।
मोघं तदपि सुन्दर्या वनस्थायाः सुरूपवत्॥७॥
सन्तो यया न सुप्रीताः सा लक्ष्मीर्ननु तादृशी
ग्राममध्ये यथा जातः फलितो विषपादपः॥८॥
धर्माधर्मावनादृत्य बुभुक्षाश्च विषह्य यः।
सञ्चीयते निधिर्नित्यं परेषां स हितावहः॥९॥
आपन्नार्तिविनाशेन वदान्यस्य दरिद्रता।
जाता जातु न नित्या सा मेघस्येव सुवर्षणात्॥१०॥